"द्विषन्तपः, परन्तपः" इति। "द्विषत्परयोस्तापे"
३।२।३९ इति खच्(), "अरुर्द्विषदजन्तस्य"
६।३।६६ इति मुम्()। "पुरन्दरः" इति। "पूःसर्वयोर्दारिसहोः"
३।२।४१ इति खच्(), "वाचंमपुरन्दरौ च"
६।३।६८ इति निपातनान्मुमागमः।
ह्यस्वग्रहणं विस्पष्टार्थम्(), शक्यते "मितां ह्यस्वः"
६।४।९२ इत्यतो मण्डूकप्लुतिन्यायेन ह्यस्वग्रहणमनुवत्र्तयितुम्()॥
खचि ह्यस्वः। "दोषो णौ" इत्यतो णाविति, "उदुपधायाः" इत्यत "उपधाया" इति चानुवर्तते। तदाह-- खच्परे णाविति। खशि प्रकृते खचो विधिरिह ह्यस्वार्थोऽणिलोपार्थश्च। खशि तु तदुभयं न स्यात्, खशः शित्त्वेन सार्वधातुकतया णिलोपाऽसंभवात्। न च इहैव सूत्रे खज्विधीयतां, पूर्वसूत्रे खशेवाऽनुवर्ततामिति वाच्यम्, अन्यतोऽपि विधानार्थत्वात्। एवं च "गमेः सुपी"ति वार्तिकमेतल्ल्ब्धार्थकथनपरमेवेत्याहुः।